भक्तिमाला
पंचांग
पंचांग
और देखें
और देखें
EN
हि
ऐप डाउनलोड
ॐ
भक्तिमाला ऐप
🔔 रिमाइंडर · 🪔 आरती · 📿 पंचांग
🔔 जल्द आ रहा है
होम
/
दुर्गा सप्तशती
/
तन्त्रोक्तं रात्रिसूक्तम्
तन्त्रोक्तं रात्रिसूक्तम्
तन्त्रोक्तं रात्रिसूक्तम्
अ−
अ+
ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥ ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट् कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥ २ ॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ३ ॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्। त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ४ ॥ विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने। तथा संहतिरूपान्ते जगतोऽस्य जगन्मये ॥ ५ ॥ महाविद्या महामाया महामेधा महास्मृतिः। महामोहा च भवती महादेवी महासुरी ॥ ६ ॥ प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दासुणा॥ ७ ॥ त्वं श्रीस्त्वमीश्वरी त्वं हीस्त्वं बुद्धिर्बोधलक्षणा। लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्ति: क्षान्तिरिव च ॥ ८ ॥ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा। शब्धिनी चापिनी बाणभुशुण्डीपरिघायुधा॥ ९ ॥ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी ॥ १०॥
8/39
पिछला
अगला
← सम्पूर्ण दुर्गा सप्तशती
और पढ़ें
🔱
दुर्गा सप्तशती
🔱
नवरात्रि
📜
व्रत कथा
🪔
आरती संग्रह
तन्त्रोक्तं रात्रिसूक्तम् — दुर्गा सप्तशती | BhaktiMala | BhaktiMala