इस प्रकार सप्तशतीका पाठ पूरा होनेपर पहले नवार्णजप करके फिर
देवीसूक्तके पाठका विधान है; अतः यहाँ भी नवार्ण-विधि उद्धृत की जाती
है। सब कार्य पहलेकी ही भाँति होंगे।
| विनियोगः |
श्रीगणपतिर्जयति। ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रहयविष्णुरुद्रा ऋषयः,
गायत्युष्णिगनुष्टुभश्छन्दांसि, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,
ए बीजम्, हीं शक्तिः, क्लीं कीलकम्, श्रीमहाकालीमहालक्ष्मीमहासरस्वतीप्रीत्य्थ
जपे विनियोगः।
| ऋष्यादिन्यासः
ब्रहाविष्णुरुद्रऋषिभ्यो नमः, शिरसि। गायत्युष्णिगनुष्टुपछन्दोभ्यो नमः,
मुखे। महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः, हदि। एँ बीजाय
नमः, गुह्ये । हीं शक्तये नमः, पादयोः। क्लीं कीलकाय नमः, नाभो।
"ॐ ए हीं क्लीं चामुण्डायै विच्चे --इति मूलेन करौ संशोध्य--
| करन्यासः |
ॐ ए अङ्गुष्ठाभ्यां नमः। ॐ हीं तर्जनीभ्यां नमः। ॐ क्लीं
मध्यमाभ्यां नमः। ॐ चामुण्डायै अनामिकाभ्यां नमः। ॐ विच्चे कनिष्ठिकाभ्यां
नमः। ॐ ऐं हीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः।
|हदयादिन्यासः।
ॐ एँ हृदयाय नमः। ॐ हीं शिरसे स्वाहा। ॐ क्लीं शिखायै वषट्
ॐ चामुण्डायै कवचाय हुम्। ॐ विच्चे नेत्रत्रयाय वौषट्। ॐ ए हीं क्लीं
चामुण्डायै विच्चे अस्त्राय फर्
| अक्षरन्यासः |
ॐ ए नमः, शिखायाम्। ॐ हीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे ।
ॐ चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः, दक्षिणनासापुटे ।
ॐ यै नमः, वामनासापुटे । ॐ विं नमः, मुखे। ॐ च्चे नमः, गुहो ।
“एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात्!
| दिङ्न्यासः |
ॐ ए प्राच्यै नमः। ॐ ए आग्नेय्यै नमः। ॐ हीं दक्षिणायै नमः। ॐ हीं
नेऋत्यै नमः । ॐ क्लीं प्रतीच्यै नमः। ॐ क्लीं वायव्ये नमः । ॐ चामुण्डायै
उदीच्यै नमः। ॐ चामुण्डायै ऐशान्ये नमः। ॐ ऐं हीं क्लीं चामुण्डायै
विच्चे ऊध्वयि नमः। ॐ ऐं हीं क्लीं चामुण्डायै विच्चे भूम्ये नमः।
| ध्यानम् |
खड्गं चक्रगदेषुचापपरिघाज्छूलं भुशुण्डीं शिरः
इस प्रकार न्यास और ध्यान करके मानसिक उपचारसे देवीकी पूजा करे।
फिर १०८ या १००८ बार नवार्णमन्त्रका जप करना चाहिये । जप आरम्भ करनेके
पहले "ए हीं अक्षमालिकाये नमः ' इस मन्त्रसे मालाक पूजा करके इस प्रकार
प्रार्थना करे
ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये॥
ॐ अक्षमालाधिपतये सुसिद्ि देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा।
इस प्रकार प्रार्थना करके जप आरम्भ करे । जप पूरा करके उसे भगवतीको
समर्पित करते हुए कहे--
गुह्यातिगुह्मगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥
तत्पश्चात् फिर नीचे लिखे अनुसार न्यास करे-
| | करन्यासः. |
ॐ हीं अङ्गुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डि मध्यमाभ्यां
नमः । ॐ कां अनामिकाभ्यां नमः। ॐ यँ कनिष्ठिकाभ्यां नमः। ॐ हीं
चण्डिकायै करतलकरपृष्ठाभ्यां नमः।
| हदयादिन्यासः |
ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
श्धिनी चापिनी बाणभुशुण्डीपरिघायुधाः ॥ हृदयाय नमः।
ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च॥ शिरसे स्वाहा।
ॐ प्राच्यां रश्च प्रतीच्यां च चण्डिके रक्ष दक्षिणे।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ शिखायै वषट् ।
ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते।
यानि चात्यर्थघोराणि ते रक्षास्मांस्तथा भुवम् ॥ कवचाय हुम्।
ॐ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः? ॥ नेत्रत्रयाय वौषट् ।
ॐ सर्वस्वरूपे सर्वेशो सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु तेरे ॥ अस्त्राय फट्।
| ध्यानम् |
ॐ विद्युदामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम्।
हस्तैर्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रा भजे" ॥